|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.13. अध्यायः 013
Mahabharata - Vana Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति तद्व्यसनस्य द्वारकायां स्वस्यासांनिध्यहेतुकत्वकथनेन समाश्वासनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वासदेव उवाच। 3-13-0x(1825)(16241)
नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप।
यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा ॥ 3-13-1(16242)
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः।
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च।
वारयेयमहं द्यूतं बहून्दोपान्प्रदर्शयन् ॥ 3-13-2(16243)
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च।
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव ॥ 3-13-3(16244)
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो।
तत्राचक्षमहं दोषान्यैर्भवान्व्यतिरोपितः ॥ 3-13-4(16245)
वीरसेनसुतो यैस्तु राज्यात्प्रभ्रंशितः पुरा।
अतर्कितविनाशश्च देवनेन विशांपते ॥ 3-13-5(16246)
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ॥ 3-13-6(16247)
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम्।
दुःखं चतुष्टय प्रोक्तं यैर्नरो भ्रश्यते श्रियः ॥ 3-13-7(16248)
तत्रसर्वत्रवक्तव्यं मन्यन्ते शास्त्रकोविदाः।
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ॥ 3-13-8(16249)
एकाहाद्द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च।
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ॥ 3-13-9(16250)
एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम्।
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ॥ 3-13-10(16251)
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम।
अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्दन ॥ 3-13-11(16252)
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः।
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ॥ 3-13-12(16253)
अथैनमविनीतेन सुहृदो नाम दुर्हृदः।
सभासदोऽनुवर्तेरंस्तांश्च इन्यां दुरोदरान् ॥ 3-13-13(16254)
असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा।
येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम् ॥ 3-13-14(16255)
सोहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन।
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ॥ 3-13-15(16256)
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्रमानसः।
तूर्णमभ्यागतोस्मित्वां द्रष्टुकामो विशंपते ॥ 3-13-16(16257)
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ।
सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः ॥ 3-13-17(16258)
इति श्रीमन्महाभारते अरण्यपर्वणइ अर्जुनाभिगमनपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-13-4 अहं तत्र द्यूते दोषान् अचक्षं व्यक्तं कथितवान् स्यामित्यर्तः ॥ 3-13-5 वीरसेनसुतः नलः। यैः अक्षैरिति शेषः ॥ 3-13-6 सातत्यमविच्छेदम्। प्रसङ्गस्य द्यूतक्रीडायाः हीयमानोऽपि जयाशया पुनःपुनर्दीव्यत्येवेत्यर्थः ॥ 3-13-13 अपनीतेनेतिपाठे अन्यायेन। दुरोदरान् द्यूतकारान् ॥ 3-13-15 एत्यागत्य। युयुधानात्सात्यकेः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|